सपीतवस्त्रं सरसीरुहेक्षणम् ।।
सहारवक्षः स्थलकोस्तुभश्रियं
नमामि विष्णु शिरसा चतुर्भुजम् ।।
हे रामाः पुरूषोत्तमा नरहरे नारायणाः केशवाः।
गोविन्दा गरुडध्वजाः गुणनिधेदामोदराः माधवा ।।
हे कृष्णाः कमलापते यदुपते सीतापते श्रीपते।
बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम् ।।
आदौ राम तपोवनादिगमनं हत्वा मृगं कांचनम्।
बैदेही हरणं जटायु मरणं सुग्रीव संभाषणम् ।।
बाली निर्दलनं समुद्र तरणं लंकापुरी दाहनम् ।
पश्चात् रावण कुम्भकर्णहननं एतद्धि रामायणम् ।।
आदौ देवकी देवगर्भ जननम् गोपीगृहे वर्द्धनम् ।
मायापूतन जीवितापहरणं गोवर्धनो धारणं ।।
कंसच्छेदन कौरवादि हननं कुन्तीसुता पालनम् ।
एतद्ध श्रीमद्भागवतपुराणकथितं श्रीकृष्ण लीलामृतम् ।।
आदौ पाण्डव धार्तराष्ट्र जननं लाक्षागृहे दाहनम् ।
द्यूतस्त्रीहरणम् वने विचरणं मत्स्यालया वेधताम् ।।
लीला गोहरणं वने विचरणं संध्या क्रिया वर्धनम् ।
पश्चाद् भीष्म सुयोधनादि हननं चैतन् महाभारतम् ।।
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभम्।
नासाग्रेवरमौक्तिकं करतले वेणुः करे कंकणम् । ।
सर्वांगे हरिचन्दनम् सुललितं कण्ठे च मुक्ताबलिः।
गोपस्त्रीपरिवेष्टितो विजयते गोपाल चूड़ामणि: ।।
फुल्लेन्दी वरकान्ति मिन्दुवदनं वर्हवतंसप्रियं।
श्री वत्सांक मुदार कौस्तुभधरं पीताम्बर सुन्दरम् ।।
गोपीनां नयनत्पलार्चिततनुं गोगोप संघावृतम् ।
गोविन्द कलवेणु वादनपरं दिव्यांगभूषं भजे ।।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्ण शुभांगम् ।।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।
यं ब्रह्मावरुणेन्द्ररुद्रमरुतःस्तुन्वन्ति दिव्यैःस्तवैः।
वेदैःसांगपदक्रमोपनिषदैर्गायन्ति यं सामगाः।।
ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो।
यस्यान्तं न विदुःसुरासुरगणाः देवाय तस्मै न ।।
एकोपि कृष्णस्य कृत प्रणामो।
दशाश्व मेधा भृथेन तुल्य: ।।
दशाश्व मेधे पुनरेपी जन्म।
कृष्ण प्रणामो न पुनर्भवाम।।
आचार्य हरीश चंद्र लखेड़ा