प्रातः नित्य स्नान के बाद संकटनाशन गणपति स्त्रोत्र का पाठ करने से सारे विघ्नों का हरण हो जाता है।
॥ संकटनाशन गणेशस्तोत्रम् ॥
।। श्री गणेशाय नमः।।
।। नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्ता वासं स्मरेन्नित्यमायुः कामार्थसिद्धये ॥१
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥३
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६ ॥
जपेद्गणपतिस्तोत्रं षड्भिमासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७ ॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८ ॥ ॥
।।इति श्री नारदपुराणे संकटनाशनं नाम गणेशस्तोत्रं सम्पूर्णम् ॥
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
आचार्य हरीश चंद्र लखेड़ा
मुम्बई