।।मङ्गलाष्टकम्।।
गंगा गोमति गोपतिर्गणपतिर्गोविन्द गोवर्द्धनो
गीता गोमय गौरिजा गिरिसुता गंगाधरो गौतमः ।
गायत्री गरुडो गदा गिरिगजो गम्भीर गोदावरी
गन्धर्व ग्रह गोप गोकुल गणाः कुर्वन्तु वो मंगलम् ।।१।।
यावत्तोयधरा धरा धर धरा धारा धरा भूधरा
यावच्चारु सुचारु चारु चमरं चामीकरं चामरम् ।
यावद् राघव राम राम रमणं रामायणं श्रूयते
तावद् भोग विभोग भोग भुवन भोगाय ते नित्यशः ।।२।।
ईशानो गिरिशो मृडः पशुपतिः शूली शिवःशंकरः
भूतेशः प्रमथाधिपः स्मर हरो मृत्युञ्जयो धुंर्जटि:।
श्रीकण्ठो वृषभध्वजो हर भवो गंगाधरस्त्र्यम्बकः
श्रीरुद्र सुरवृन्दवन्दित पदः कुर्यात् सदा मंगलम् ।।३।।
लक्ष्मीस्ते पंकजाक्षी निवसतु भवने भारती कंठदेशे,
वर्द्धन्ता बन्धुवर्गः सकलरिपुगणा यान्तु पातालमूलम् ।
देशे देशे च कीर्तिः प्रभवतु भवतां पूर्ण कुन्देन्दुशुभ्रा
जीव त्वं पुत्र पौत्रैः स्वजन परिवृत्तो भुक्ष्व राज्यं विशालम् ।।४।।
सिंहादुत्थाय कोपाद् ध धड़ धड़ धावमाना भवानी
दैत्यानां दिव्यशस्त्रैस्त तड तड़ त्रोटयन्ती शिरांसि ।
तेषां रक्तं पिबन्ती घु घुट घुट प्रेक्षणीया पिशाची
तृप्ता तृप्ता हसन्ती ख खत खत शाम्भवी वः पुनातु।।५।।
गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा
कावेरी सरयू महेन्द्रतनया चर्मण्वती वेदिका ।
क्षिप्रा वेत्रवती महासुरनदी ख्याता गया गण्डकी
पूर्णा पुण्य जलैः समुद्र सहिताः कुर्वन्तु वो मंगलम् ।।६।।
नाना रूप सुरूपिता सुखकरा सामीप्य सायुज्यदा
लाना धाम विराजिता पर पदा पूज्यापरा पापहा ।
नाना नाम सुपूजिता सुफलदा सेव्या सदा सौख्यदा
ध्येया सा भुवनेश्वरी भगवती मातेश्वरी अम्बिका ।।७।।
अन्तर्बाह्य गता च या रिपुकृता बाधा सदा नाशिनी
नाना क्लेशहरा वराभयकरा वाञ्छामनो दायिनी ।
या नित्या करुणामयी मतिमयी माता घनानन्ददा
सा पूज्या जगदीश्वरी भगवती शाकम्भरी अम्बिका ।।८।।
चिताभस्मालेपो गरलमशनं दिक्पट धरो
जटाधारी कण्ठे भुजगपति हारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशेक पदवीं
भवानि त्वत्पाणिग्रहण परिपाटी फलमिदम् ।।९।।
श्रीमत्पङ्कजविष्टरो हरिहरौ वायुर्महेन्द्रोऽनल-
श्चन्द्रो भास्कर वित्तपालवरुणाः प्रेताधिपादिग्रहाः।
प्रद्युम्नो नलकूवरः सुरगजश्चिंतामणिः कौस्तुभः
स्वामी शक्तिधरश्च लांगलधरः कुर्वन्तु नो मङ्गलम्।।१०।।
गङ्गा गोमतिगोपतिर्गणपतिर्गोविन्द गोवर्द्धनो
गीतागोमय गौरिजो गिरिसुता गङ्गाधरो गौतमः ।
गायत्री गरुडो गदाधर गया गम्भीर गोदावरी गन्धर्वग्रहगोपगोकुलगणाः कुर्वन्तु नो मङ्गलम् ॥११॥
नेत्राणां त्रितयं शिवं पशुपतेरग्नित्रयं पावनं
पुण्यं विष्णुपद त्रयं त्रिभुवनं ख्यातं च रामत्रयम् ।
गङ्गावाह पथत्रयं सुविमलं देव त्रयं ब्राह्मणं
सन्ध्यानां त्रितयं द्विजैः सुविहितं कुर्वन्तु नो मङ्गलम् ॥१२॥
गौरी श्रीः कुलदेवता च सुभगा भूमिः प्रपूर्णा शुभा
सावित्री च सरस्वती सुरनदी सत्यव्रतारुन्धती ।
सत्या जाम्बवती च रुक्मभगिनी दुःस्वप्नविध्वंसिनी
वेला चाम्बुनिधेः सुमीनमकराः कुर्वन्तु गे मङ्गलम् ।।१३ ।।
अश्वत्थो वटवृक्षचन्दनतरुर्मन्दारकल्पद्रुमौ
जम्बूनिम्बकदम्बआम्रसरला वृक्षाश्च ये क्षीरिणः ।
सर्वे ते फलसंयुताः प्रतिदिनं विम्राजनं राजते
रम्यं चैत्ररथं च नन्दनवनं कुर्वन्तु नो मङ्गलम् ॥१४ ॥
वाल्मीकिः सनकः सनन्दन तरुर्व्यासो वशिष्ठो भृगु-
र्जावालिर्जमदग्निकच्छजनको गर्गाऽङ्गिरा गौतमः ।
मान्धाता भरतो नृपश्च सगरो धन्यो दिलीपो नलः
पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मङ्गलम् ।।१५।।
लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वतरिश्चन्द्रमा
गावः काम दुघाः सुरेश्वरगजो रम्भादिदेवाङ्गनाः ।
अश्वः सप्तमुखः सुधा हरिधनुः शंखो विषं चाम्बुधे
रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु नो मङ्गलम् ।। १६।।