💐।।अथ देव्यापराधक्षमापन स्त्रोत्रं।।💐 लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
💐।।अथ देव्यापराधक्षमापन स्त्रोत्रं।।💐 लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शुक्रवार, 6 नवंबर 2020

।।अथ देव्यापराधक्षमापन स्त्रोत्रं।।


    💐अथ देव्यपराधक्षमापनस्तोत्रम् 💐

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 

नचाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।।

नजाने मुद्रास्ते तदपि च न जाने विलपनं

परं जाने मातस्त्वदनुसरणं क्लेशहरणम्।।१ ।। 

विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणी शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।२ ।। 

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः 

परं तेषां मध्ये विरलतरलोऽहं तव सुतः । 

मदीयोऽयं त्यागः समुचितमिदंनो तव शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।३ ।। 

जगन्मातर्मातस्तव चरणसेवा न रचिता 

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।४ ।। 

परित्यक्ता देवा विविधविध सेवा कुलतया

मया पञ्चाशीते रधिक मपनीते तु वयसि । 

इदानीं चेन्मातस्तव यदि कृपा नापि भविता 

निरालम्बो लम्बो दरजननिकं यामि शरणम्।।५ ।।

श्वपाको जल्पाको भवति मधुपाको पमगिरा

निरातङ्को रङ्को विहरति चिरं कोटि कनकैः । 

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं 

जनः को जानीते जननि जपनीयं जपविधौ।।६ ।।

चिताभस्मालेपो गरलमशनं दिक्पटधरो 

जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।

कपाली भूतेशो भजति जगदीशैकपदवीं 

भवानि त्वत्पाणि ग्रहण परिपाटी फलमिदम्।।७ ।। 

न मोक्षस्या काडक्षा भव विभव वाञ्छापि च न मे 

न विज्ञाना पेक्षा शशि मुखि सुखेच्छापि न पुनः ।

अतस्त्वां संयाचे जननि जननं यातु मम वै 

मृडानी रुद्राणी शिव शिव भवानीति जपतः।।८ ।। 

नाराधितासि विधिना विविधोपचारैः

किं रुक्ष चिन्तन परैर्न कृतं वचोभिः । 

श्यामे त्वमेव यदि किञ्चन मय्य नाथे 

धत्से कृपा मुचितमम्ब परंतवैव।।९ ।। 

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि ।

नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ।।१० ।।

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि । 

अपराध परम्परापरं न हि माता समुपेक्षते सुतम्।।११ ।।

मत्समः पातकी नास्ति पापानी त्वत्समान हि । 

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ।।१२ ।।

इति श्री शङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ।

                ।। श्री दुर्गार्पणमस्तु ।। 

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐


ॐ जय गौरी नंदा

         डाउनलोड ऐप  आज की तिथि  त्योहार  मंदिर  आरती  भजन  कथाएँ  मंत्र  चालीसा  आज का विचार  प्रेरक कहानियाँ  ब्लॉग  खोजें होम भजन ओम जय ग...