जपाकुसुम संकाशं काश्यपेयं महा द्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोस्मि दिवकरम। १ ।।
दधिशंख तुषाराभं क्षीरोदार्णव सम्भवम् ।
नमामि शशिनं सोमं शाभोर्मुकूट भूषणम् ॥ २ ॥
धरणीगर्भसूम्भूतं विद्युत कान्ति समप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३ ॥
प्रियंगु कलिकाश्यामं रूपेणापतिमं बुद्धम ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।। ४ ।।
देवानां च ऋषीणां च गुरु काञ्चनसंनिभम् ।
बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५ ॥
हिमकुन्द मृणा लाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ।।६ ।।
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्तण्ड सम्भूतं तं नमामि शनैश्चरम ॥ ७ ॥
अर्धकायं महावीर्यं चन्द्रा दित्य विमर्दनम् ।
सिहिका गर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥
पलाश पुष्प सकाशं तारका ग्रहमस्तकम् । ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥
इति व्यास मखोद्गीतं यः पठेत सुसमाहितः ।
दिवा वा यदि वा रात्रो विध्न शांतिर्भविष्यति।।१० ।।
नरनारी नृपाणाम च भवेद दुःस्वप्न नाशनम
ऐश्वर्य मतुलं तेषामारोग्यं पुष्टि वर्धनम ।।११।।
।। महर्षिव्यासविरचितं नवग्रहस्त्रोत्रं सम्पूर्णम।।
आचार्य हरीश चंद्र लखेड़ा
वसई मुम्बई
मो 9004013983