रुक्मिण्युवाच
श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते
निर्विश्य कर्ण विवरैर्हरतोऽङ्गतापम् ।
रूपं दृशां दृशिमता मखिलार्थ लाभं
त्वय्यच्युता विशति चित्तमपत्रपं मे ॥१।।
का त्वा मुकुन्द महती कुलशीलरूप ।
विद्या वयो द्रविण धाम भिरात्मतुल्यम
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोक मनोभिरामम् ॥२।।
तन्मे भवान् खलु वृतः पतिरङ्ग जाया
मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।
मावीर भाग मभिमर्शतु चैद्य आराद्
गोमा युवन्मृगपतेर्बलि मम्बुजाक्ष ॥३ ।।
पूर्तेष्ट दत्त नियम व्रत देव विप्र
गुर्वर्चनादि भिरलं भगवान् परेशः ।
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्णातु मे न दमघोष सुतादयोऽन्ये ॥ ४।।
श्वो भाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतना पतिभिः परीतः ।
निर्मथ्य चैद्य मगधेन्द्र बलं प्रसह्य
मां राक्षसेन विधिनो द्वह वीर्यशुल्काम् ॥ ५ ।।
अन्तः पुरान्तर चरीमनिहत्य बन्धूं
स्त्वा मुद्वहे कथमिति प्रवदाम्यु पायम् ।
पूर्वे धुरस्ति महती कुलदेवियात्रा
यस्यां बहिर्नववधूर्गिरिजा मुपेयात् ॥६।।
यस्याध्रि पङ्कज रजःस्नपनं महान्तो
वाञ्छन्त्यु मापति रिवात्म तमोऽपहत्यै ।
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्या मसून् व्रतकृशाञ्छत जन्मभिः स्यात् ॥ ७।।
ब्राह्मण उवाच
इत्येते गुह्यसन्देशा यदुदेव मयाऽऽहृताः ।
आचार्य हरीश चंद्र लखेड़ा
वसई मुम्बई