शनिवार, 27 जून 2020

💐।।मंत्रपुष्पांजलिं।।💐

 ॐ यज्ञेन यज्ञ मयजन्त देवास्तानि धर्माणि प्रथमान्या सन् 
 तेहनाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।। 
ॐ राजाधिराजाय प्रसह्य साहिने।नमो वयं वैश्रवणाय कुर्म हे । समे कामान काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु । कुबेराय  वैश्रवणाय  महाराजाय नमः।

ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समन्त पर्यायी स्यात् सार्वभौमः  सार्वायुष आन्तादापरार्धात् । पृथिव्यै समुंद्र पर्यन्ताया एक राडिति। तदप्येष श्लोकोऽभि गीतो मरुतः परिवेष्टारो मरूत स्यावसन् गृहे।आविक्षितस्य काम प्रेर्विश्वे देवाः सभासद् इति ।।  

 सेवन्तिका वकुल चम्पक पाटलाब्जैः।
 पुन्नाग जाति करवीर रसाल पुष्पैः।।
 बिल्व प्रवाल तुलसीदल मंजरीभिः।
 त्वां पूजयामि जगदीश्वरी मे प्रसीद ।।

 नाना सुगंधि पुष्पाणि यथाकालोद् भवानि च । 
  पुष्पंजलिर्मया मया दत्त गृहाण परमेश्वर ।।

 कायेन वाचा मनसेन्द्रियैर्वा ।
बुद्धयात्मना वानुसृत स्वभावात् । ।      
 करोमि यद्यत् सकलं परस्मै ।
नारायणायेति समर्पयेतत् ।। 

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । 
सर्वे भद्राणि पश्यन्ति मा कश्चिद दुःख भाग भवेत् ।। 

त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।।
त्वमेव विद्या द्रविणं त्वमेव।
 त्वमेव सर्वं मम देव देवः ।। 


॥ क्षमा -प्रार्थना ।।

अपराधसहस्राणि क्रियन्तेऽहर्निशंमया । 
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि।।१ ।।
आवाहनंन जानामि , न जानामि विसर्जनम् । 
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥२ ॥ 
मन्त्रहीन क्रियाहीनं भक्तिहीनं सुरेश्वरि । 
यत्यूजितं मया देवि परिपूर्णं तदस्तु मे।।३ ।।
अपराधशतंकृत्वा जगदम्बेति चोच्चरेत् । 
यांगतिंसमवाप्नोति न तांब्रह्मादयाः सुराः ।।४ ।। सापराधोऽस्मिशरणं प्राप्तस्त्वां जगदम्बिके । 
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ।।५ ।। अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्यूनमधिकं कृतम् । 
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि।।६ ।। 
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
 गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि।।७ ।। 
गुह्यातिगुह्यगोप्ती त्वं गृहाणास्मत्कृतं जपम् । 
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि।।८ ।। 

1 टिप्पणी:

आपका धन्यवाद आपका दिन मंगलमय हो।
मेरे ब्लॉग को सब्सक्राइब जरूर करे

ॐ जय गौरी नंदा

         डाउनलोड ऐप  आज की तिथि  त्योहार  मंदिर  आरती  भजन  कथाएँ  मंत्र  चालीसा  आज का विचार  प्रेरक कहानियाँ  ब्लॉग  खोजें होम भजन ओम जय ग...