॥ श्रीषष्ठीदेवीस्तोत्रम् ॥
सन्तान प्राप्ति के लिये अद्भुत अनुष्ठान
यदि कोई महानुभाव कि किसी कारणवश सन्तान न होनेसे निराश हों तो विश्वासपूर्वक श्रीषष्ठीदेवीस्तोत्र का नियमित रूप से नित्य पाठ करें ।
ध्यानम्-
षष्ठांशा प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम् ।
सुपुत्रदां च सुभगां दयारूपां जगत्प्रसूम् ॥
श्वेतचम्पकवर्णाभां रक्तभूषणभूषिताम् ।
पवित्ररूपां परमां देवसेना परां भजे ।।
मंत्र:--
ॐ ह्रीं षष्ठीदेव्यै स्वाहा । ( यथाशक्ति जप करें )
स्तोत्रं श्रृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
आज्ञाप्रदं च सर्वेषां गूढं वेदेषु नारद ॥
प्रियव्रत उवाच :--
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥१॥
वरदाय पुत्रदायै। धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ २॥
शक्तिषष्ठांशरूपायै सिद्धाय च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ ३॥
साराय शारदायै च पारायै सर्वकारिण्यै ।
बालाधिष्ठायै देव्यै च षष्ठीदेव्यै नमो नमः ।। ४॥
कल्याणदाय कल्याण्यै फलदायै च कर्मणाम् ।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥५॥
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥ ६॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ॥ ७॥
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।
धर्म देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥ ८॥
भूमिं देहि प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ९॥
इति देवीं च संस्तुत्य लेभे पुत्रं प्रियव्रतः ।
यशस्विनं च राजेन्द्रं षष्ठीदेवी प्रसादतः ॥१०॥
षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति च वत्सरम् ।
अपुत्रे लभते पुत्रं वरं सुचिरजीविनम् ॥११॥
वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च ।
सर्वपापविनिर्मुक्ता महावन्ध्या प्रसूयते ॥ १२॥
वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।
सुचिरायुष्मन्तमेव। षष्ठीदेवी प्रसादतः ॥ १३॥
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ।
वर्षं श्रुत्वा लभेत् पुत्रं षष्ठीदेवीप्रसादतः ॥१४॥
रोगयुक्ते च बाले च पिता माता शृणोति चेत् ।
मासेन मुच्यते बालः षष्ठीदेवी प्रसादतः ॥ १५॥
प्रणाम - मन्त्र
जय देवि जगन्मातर्जगदानन्दकारिणि ।
प्रसीद मम कल्याणि नमस्ते षष्ठि देवते ॥
षष्ठी देव्यै नमो नमः
जवाब देंहटाएं